(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.161. अध्यायः 161
Mahabharata - Vana Parva - Chapter Topics
कदाचन गरुडपक्षवातानीताद्भुताम्बुजदर्शिन्या द्रौपद्या तादृशबहुपुष्पानयनं तथा दुष्टयक्षराक्षसक्षपणं च प्रार्थितेन भीमेन तदर्थं गन्धमादनशिखरारोहणम् ॥ 1 ॥ तथा स्वीयशङ्खध्वनिश्रवणेनाभिद्रुतवतां मणिमदादीनां युद्धे हननम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

जनमेजय उवाच। 3-161-0x(2295)(22090)
आर्ष्टिषेणाश्रमे तस्मिन्मम पूर्वपितामहाः।
पाण्डोः पुत्रा महात्मान सर्वे दिव्यपराक्रमाः ॥ 3-161-1(22091)
कियन्तं कालमवसन्पर्वते गन्धमादने।
किंच चक्रुर्महावीर्याः सर्वेऽतिबलपौरुषाः ॥ 3-161-2(22092)
कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम्।
वसतां लोकवीराणामासंस्तद्ब्रूहि सत्तम ॥ 3-161-3(22093)
विस्तरेण च मे शंस भीमसेनपराक्रमम्।
यद्यच्चक्रे महाबाहुस्तस्मिन्हैमवते गिरौ ॥ 3-161-4(22094)
न खल्वासीत्पुनर्युद्धं तस् यक्षैर्द्विजोत्तम।
`धनदाध्युषिते नित्यं वसतस्तत्र पर्वते' ॥ 3-161-5(22095)
कच्चित्समागमस्तेषामासीद्वैश्रवणस्य च।
तत्र ह्यायाति धनद आर्ष्टिषेणो यथाऽब्रवीत् ॥ 3-161-6(22096)
एतदिच्छाम्यहं श्रोतुं रविस्तरेण तपोधन।
न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम् ॥ 3-161-7(22097)
वैशम्पायन उवाच। 3-161-8x(2296)
एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः।
शासनं सततं चक्रुस्तथैव भरतर्षभाः ॥ 3-161-8(22098)
भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च।
शुद्धबाणहतानां च मृगाणां पिशितान्यपि ॥ 3-161-9(22099)
मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च।
एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः ॥ 3-161-10(22100)
तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात्।
शृण्वतां लोमशोक्तानि वाक्यानि विविधान्युत ॥ 3-161-11(22101)
कृत्यकाल उपस्तास्य इति चोक्त्वा घटोत्कचः।
राक्षसैः सह सर्वैश्च पूर्वमेव गतः प्रभो ॥ 3-161-12(22102)
आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम्।
अगच्छन्बहवो मासाः पश्यतां महदद्भुतम् ॥ 3-161-13(22103)
तैस्तत्रविहरद्भिश्च रममाणैश्च पाण्डवैः।
प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा ॥ 3-161-14(22104)
आजग्मुः पाण्डवान्द्रष्टुं शुद्धात्मानो यतव्रताः।
ते तैः सह कथां चक्रुर्द्रिव्यां भरतसत्तमाः ॥ 3-161-15(22105)
ततः कतिपयाहस्सु महाह्रदनिवासिनम्।
ऋद्धिमन्तं महानागं सुपर्णः सहसाऽहरत् ॥ 3-161-16(22106)
प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः।
ददृशुः सर्वभूतानि पाणअडवाश्च तदद्भुतम् ॥ 3-161-17(22107)
ततः शैलोत्तमस्याग्रात्पाण्डवान्प्रति मारुतः।
अवहत्सर्वमाल्यानि गन्धवन्ति शुभानि च ॥ 3-161-18(22108)
तत्रपुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः।
ददृशुः पञ्चवर्णानि द्रौपदी च यशस्विनी ॥ 3-161-19(22109)
भीमसेनं ततः कृष्णा काले वचनमब्रवीत्।
विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् ॥ 3-161-20(22110)
सुपर्णानिलवेगेन श्वसनेन महाबलात्।
पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ ॥ 3-161-21(22111)
`दिव्यावर्णानि दिव्यानि दिव्यगन्धवहानि च।
मदयन्तीव गन्धेन मनो मे भरतर्षभ ॥ 3-161-22(22112)
येषां तु दर्शनात्स्पर्शान्सौरभ्याच्च तथैव च।
नश्यतीव मनोदुःखं ममेदं शत्रुतापन ॥ 3-161-23(22113)
ईदृशैः कुसुमैर्दिव्यैर्दिव्यगन्धवहैः शुभैः।
देवतान्यर्चयित्वाऽहमिच्छेयं सङ्गमं त्वया ॥ 3-161-24(22114)
इदं तु पुरुषव्याघ्र विशेषेणाम्बुजं शुभम्।
गन्धसंस्थानसंपन्नं मम मानसवर्धनम्' ॥ 3-161-25(22115)
प्रत्यक्षं सर्वलोकस् नह्यदृश्यत मां प्रति ॥ 3-161-26(22116)
`वासुदेवसहायेन वासुदेवप्रियेण च'।
खाण्डवे सत्यसन्धेन भ्रात्रा तव महात्मना ॥ 3-161-27(22117)
गन्धर्वोरगरक्षांसि वासवश्च पराजितः।
हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवं ॥ 3-161-28(22118)
तवापि सुमहत्तेजो महद्बाहुबलं च ते।
अविषह्यमनाधृष्यं शक्रतुल्यपराक्रम ॥ 3-161-29(22119)
त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः।
हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश ॥ 3-161-30(22120)
ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम्।
व्यपेतभयसंमोहाः पश्यन्तु सुहृदस्तव ॥ 3-161-31(22121)
एवं प्रणिहितं भीम चिरात्प्रभृतिमे मनः।
द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलमाश्रिता ॥ 3-161-32(22122)
`इच्छामि च नरव्याघ्र पुष्पं प्रत्यक्षमीदृशम्।
आनीयमानं क्षिप्रं वै त्वया भरतसत्तम' ॥ 3-161-33(22123)
ततः क्षिप्तमिवात्मानं द्रौपद्या स परंतपः।
नामृष्यत महाबाहुः प्रहारमिवसद्गजः ॥ 3-161-34(22124)
सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः।
मनस्वी बलवान्दृष्टो मानी भूरश्च पाण्डवः ॥ 3-161-35(22125)
लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः।
सिंहदंष्ट्रो वृषस्कन्धः सालपोत इवोद्गतः ॥ 3-161-36(22126)
महात्मा चारुसर्वाङ्ग कम्बुग्रीवो महाहनुः।
रुक्मपृष्ठं धनुः खङ्गं तूणांश्चापि परामृशन् ॥ 3-161-37(22127)
सकेसरीव चोत्सिक्तः प्रभिन्न इव वारणः।
व्यपेतभयसंमोहः शैलमभ्यपतद्बली ॥ 3-161-38(22128)
तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम्।
ददृशुः सर्वभूतानि पार्थं खङ्गधनुर्धरम् ॥ 3-161-39(22129)
द्रौपद्या वर्धयन्हर्षं गदामादाय पाण्डवः।
व्यपेतभयसंमोहः शैलराजं समाविशत् ॥ 3-161-40(22130)
न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः।
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ॥ 3-161-41(22131)
तदेकायनमासाद्य विषमं भीमदर्शनम्।
बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः ॥ 3-161-42(22132)
स किन्नरमहानागमुनिगन्धर्वराक्षसान्।
हर्षयन्पर्वतस्याग्रमारुरोह महाबलः ॥ 3-161-43(22133)
ततो वैश्रवणावासं ददर्श भरतर्षभः।
काञ्चनैः स्फाटिकैश्चैव वेश्मभिः समलंकृतम् ॥ 3-161-44(22134)
[प्राकारेण परिक्षिप्तं सौवर्णेन समन्ततः।
सर्वरत्नद्युतिमता सर्वोद्यानवता तथा ॥ 3-161-45(22135)
शैलादभ्युच्छ्रयवता चयाट्टालकशोभिना।
द्वारतोरणनिर्व्यूहध्वजसंवाहशोभिना ॥ 3-161-46(22136)
विलासिनीभिरत्यर्थं नृत्यन्तीभिः समन्ततः।
वायुना धूयमानाभिः पताकाभिरलंकृतम् ॥ 3-161-47(22137)
धनुष्कोटिमवष्टभ्य वक्रभावेन बाहुना।
पश्यमानः सखेदेन द्रविणाधिपतेः पुरम् ॥] 3-161-48(22138)
मोदयनसर्वभूतानि गन्धमादनसंभवः।
सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥ 3-161-49(22139)
चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः।
अचिन्त्या विविधास्तत्र द्रुमाः परमशोभिनः ॥ 3-161-50(22140)
रत्नजालपरिक्षिप्तं चित्रमाल्यविभूषितम्।
राक्षसाधिपतेः स्थानं ददृशे भरतर्षभः ॥ 3-161-51(22141)
गदाखङ्गधनुष्पाणिः समभित्यक्तजीवितः।
भीमसेनो महाबाहुस्तस्थौ गिरिवाचलः ॥ 3-161-52(22142)
ततः शङ्खमुपाध्माय द्विषतां रोमहर्षणम्।
ज्याघोषं तलशब्दं च कृत्वा भूतान्यमोहयत् ॥ 3-161-53(22143)
ततः प्रहृष्टरोमाणस्तं शब्दमभिदुद्रुवुः।
यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः ॥ 3-161-54(22144)
गदापरिघनिस्त्रिंशशूलशक्तिपरश्वथाः।
प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः ॥ 3-161-55(22145)
ततः प्रववृते युद्धं तेषां तस्य च भारत ॥ 3-161-56(22146)
तैः प्रयुक्तान्महामायैः शूलशक्तिपरश्वथान्।
भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः ॥ 3-161-57(22147)
अन्तरिक्षगतानां च भूमिष्ठानां च गर्जताम्।
शरैर्विव्याध गात्राणइ राक्षसानां महाबलः ॥ 3-161-58(22148)
`शोणितस्य ततः पेतुर्घनानामिव भारत।'
गात्रेभ्यः प्रच्युता धारा राक्षसानां समन्ततः'।
स लोहितमहावष्टिमभ्यवर्षन्महाबलः ॥ 3-161-59(22149)
गदापरिघपाणीनां रक्षसां कायसंभवा।
कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः ॥ 3-161-60(22150)
भीमबाहुबलोत्सृष्टैरायुधैर्यक्षरक्षसाम्।
विनिकृत्तानि दृश्यन्ते शरीराणि शिरांसि च ॥ 3-161-61(22151)
प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम्।
ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव ॥ 3-161-62(22152)
स रश्मिभिरिवादित्यः शरैररिनिपातिभिः।
सर्वानार्च्छन्महाबाहुर्बलवान्सत्यविक्रमः ॥ 3-161-63(22153)
अभितर्जयमानाश्च रुवन्तश् महारवान्।
सन्नाहं भीमसेनस्य ददृशुः सर्वराक्षसाः ॥ 3-161-64(22154)
ते हि विक्षतसर्वाङ्गा भीमसेनभयार्दिताः।
भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः ॥ 3-161-65(22155)
उत्सृज्य ते गदाशूलानसिशक्तिपरश्वथान्।
दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना ॥ 3-161-66(22156)
तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः।
सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः ॥ 3-161-67(22157)
दर्शयन्स प्रतीकारं पौरुषं च महाबलः।
स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत् ॥ 3-161-68(22158)
एकेन बहवः सङ्ख्ये मानुषेण पराजिताः।
प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् ॥ 3-161-69(22159)
एवमाभाष् तान्सर्वानभ्यवर्तत राक्षसः।
शक्तिशूलगदापाणिरभ्यधावत्स पाण्डवम् ॥ 3-161-70(22160)
तमापतन्तं वेगेन प्रभिन्नमिव वारणम्।
वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समार्दयत् ॥ 3-161-71(22161)
मणिमानपि संक्रुद्धः प्रगृह्य महतीं गदाम्।
प्राहिणोद्भीमसेनाय परिगृह्य महाबलः ॥ 3-161-72(22162)
विद्युद्रूपां महाघोरामाकाशे महतीं गदाम्।
शरैर्बहुभिरानर्छद्भीमसेनः शिलाशितैः ॥ 3-161-73(22163)
प्रत्यहन्यन्त ते सर्वेगदामासाद्य सायकाः।
न वेगं धारयामासुर्गदावेगस्य वेगिताः ॥ 3-161-74(22164)
गदायुद्धसमाचारं बुध्यमानः स वीर्यवान्।
व्यंसयामास तं तस्य प्रहारं भीमविक्रमः ॥ 3-161-75(22165)
ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम्।
तस्मिन्नेवान्तरे धीमान्प्रचिक्षेप स राक्षसः ॥ 3-161-76(22166)
सा भुजं भीमनिर्ह्रादा भित्त्वाभीमस् दक्षिणम्।
साग्निज्वाला महारौद्रा पपात सहसा भुवि ॥ 3-161-77(22167)
सोऽतिविद्धो महेष्वासः शक्त्याऽमितपराक्रमः।
गदां जग्राह कौन्तेयो गदायुद्धविशारदः ॥ 3-161-78(22168)
रुक्मपट्टपिनद्धां तां शत्रूणां भयवर्धिनीम्।
प्रगृह्याथ नदन्भीमः शैक्यां सर्वायसीं गदाम्।
तरसा चाभिदुद्राव मणिमन्तं महाबलम् ॥ 3-161-79(22169)
दीप्यमानं महाशूलं प्रगृह्य मणिमानपि।
प्राहिणोद्भीमसेनाय वेगेन महता नदन् ॥ 3-161-180(22170)
भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविभागवित्।
अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम् ॥ 3-161-81(22171)
सोऽन्तरिक्षमवप्लुत्य विधूय सहसा गदाम्।
प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि ॥ 3-161-82(22172)
सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरहसा।
हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह ॥ 3-161-83(22173)
तं राक्षसं बीमबलं भीमसेनबलाहतम्।
ददृशुः सर्वभूतानि सिंहेनेव गवांपतिम् ॥ 3-161-84(22174)
तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः।
भीममार्तस्वरं कृत्वा जग्मुः प्राचजीं दिशं प्रति ॥ 3-161-85(22175)

इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि एकषष्ट्यधिकशततमोऽध्यायः ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-161-34 सद्गव इति झ. पाठः ॥ 3-161-36 पृथू विशिष्टौ अंसौ यस्यस पृथुव्यंसः ॥ 3-161-41 ग्लानिः श्रमः. कातर्यं भयम्। वैक्लव्यमनुत्साहः। मत्सरः परोत्कर्षासहिष्णुत्वम् ॥ 3-161-42 एकायनं वामदक्षिणसंचारशून्यम् ॥ 3-161-45 परिक्षिप्तं परित आवृतम् ॥ 3-161-46 चयाट्टालकशोभिना। चयः प्रकारस्य मूलबन्धः। अट्टालकः उपरिगृहम्। तोरणं वहिर्द्वारम्। निर्व्यूहः नागदन्ताख्यं गृहान्निर्गतं दारु ॥ 3-161-48 वक्रभावेन वक्रेण बाहुना उपलक्षितः। खेदेन तद्दर्शनात्खसंपात्स्मरणं तेन. द्रविणाधिपतेः धनाधिपतेः ॥ 3-161-51 ददृशे ददर्श ॥ 3-161-64 न मोहं भीमसेनस्येति झ. पाठः ॥ 3-161-68 अदर्शयदाधीकारमिति झ. पाठः ॥ 3-161-69 सङ्ख्ये संग्रामे ॥ 3-161-74 प्रत्यहन्यन्त प्रतिहताः। वेगिताः वेगवन्तोपि। गदावेगस्य गदायां वेगोऽत्यभ्यासो यस्य तस्य ॥ 3-161-75 सः भीमः। व्यंसयामास व्यर्थीचकार ॥ 3-161-76 अयस्मयी अयोमयीम् ॥ 3-161-79 शैक्यां शीकयति शत्रुन्पराभवतीति शैक्या। शीकयतेर्ऋहलोर्ण्यदिति ण्यत्। ततः स्वार्थिकोण् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.