|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.161. अध्यायः 161
Mahabharata - Vana Parva - Chapter Topics
कदाचन गरुडपक्षवातानीताद्भुताम्बुजदर्शिन्या द्रौपद्या तादृशबहुपुष्पानयनं तथा दुष्टयक्षराक्षसक्षपणं च प्रार्थितेन भीमेन तदर्थं गन्धमादनशिखरारोहणम् ॥ 1 ॥ तथा स्वीयशङ्खध्वनिश्रवणेनाभिद्रुतवतां मणिमदादीनां युद्धे हननम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
जनमेजय उवाच। 3-161-0x(2295)(22090)
आर्ष्टिषेणाश्रमे तस्मिन्मम पूर्वपितामहाः।
पाण्डोः पुत्रा महात्मान सर्वे दिव्यपराक्रमाः ॥ 3-161-1(22091)
कियन्तं कालमवसन्पर्वते गन्धमादने।
किंच चक्रुर्महावीर्याः सर्वेऽतिबलपौरुषाः ॥ 3-161-2(22092)
कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम्।
वसतां लोकवीराणामासंस्तद्ब्रूहि सत्तम ॥ 3-161-3(22093)
विस्तरेण च मे शंस भीमसेनपराक्रमम्।
यद्यच्चक्रे महाबाहुस्तस्मिन्हैमवते गिरौ ॥ 3-161-4(22094)
न खल्वासीत्पुनर्युद्धं तस् यक्षैर्द्विजोत्तम।
`धनदाध्युषिते नित्यं वसतस्तत्र पर्वते' ॥ 3-161-5(22095)
कच्चित्समागमस्तेषामासीद्वैश्रवणस्य च।
तत्र ह्यायाति धनद आर्ष्टिषेणो यथाऽब्रवीत् ॥ 3-161-6(22096)
एतदिच्छाम्यहं श्रोतुं रविस्तरेण तपोधन।
न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम् ॥ 3-161-7(22097)
वैशम्पायन उवाच। 3-161-8x(2296)
एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः।
शासनं सततं चक्रुस्तथैव भरतर्षभाः ॥ 3-161-8(22098)
भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च।
शुद्धबाणहतानां च मृगाणां पिशितान्यपि ॥ 3-161-9(22099)
मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च।
एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः ॥ 3-161-10(22100)
तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात्।
शृण्वतां लोमशोक्तानि वाक्यानि विविधान्युत ॥ 3-161-11(22101)
कृत्यकाल उपस्तास्य इति चोक्त्वा घटोत्कचः।
राक्षसैः सह सर्वैश्च पूर्वमेव गतः प्रभो ॥ 3-161-12(22102)
आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम्।
अगच्छन्बहवो मासाः पश्यतां महदद्भुतम् ॥ 3-161-13(22103)
तैस्तत्रविहरद्भिश्च रममाणैश्च पाण्डवैः।
प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा ॥ 3-161-14(22104)
आजग्मुः पाण्डवान्द्रष्टुं शुद्धात्मानो यतव्रताः।
ते तैः सह कथां चक्रुर्द्रिव्यां भरतसत्तमाः ॥ 3-161-15(22105)
ततः कतिपयाहस्सु महाह्रदनिवासिनम्।
ऋद्धिमन्तं महानागं सुपर्णः सहसाऽहरत् ॥ 3-161-16(22106)
प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः।
ददृशुः सर्वभूतानि पाणअडवाश्च तदद्भुतम् ॥ 3-161-17(22107)
ततः शैलोत्तमस्याग्रात्पाण्डवान्प्रति मारुतः।
अवहत्सर्वमाल्यानि गन्धवन्ति शुभानि च ॥ 3-161-18(22108)
तत्रपुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः।
ददृशुः पञ्चवर्णानि द्रौपदी च यशस्विनी ॥ 3-161-19(22109)
भीमसेनं ततः कृष्णा काले वचनमब्रवीत्।
विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् ॥ 3-161-20(22110)
सुपर्णानिलवेगेन श्वसनेन महाबलात्।
पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ ॥ 3-161-21(22111)
`दिव्यावर्णानि दिव्यानि दिव्यगन्धवहानि च।
मदयन्तीव गन्धेन मनो मे भरतर्षभ ॥ 3-161-22(22112)
येषां तु दर्शनात्स्पर्शान्सौरभ्याच्च तथैव च।
नश्यतीव मनोदुःखं ममेदं शत्रुतापन ॥ 3-161-23(22113)
ईदृशैः कुसुमैर्दिव्यैर्दिव्यगन्धवहैः शुभैः।
देवतान्यर्चयित्वाऽहमिच्छेयं सङ्गमं त्वया ॥ 3-161-24(22114)
इदं तु पुरुषव्याघ्र विशेषेणाम्बुजं शुभम्।
गन्धसंस्थानसंपन्नं मम मानसवर्धनम्' ॥ 3-161-25(22115)
प्रत्यक्षं सर्वलोकस् नह्यदृश्यत मां प्रति ॥ 3-161-26(22116)
`वासुदेवसहायेन वासुदेवप्रियेण च'।
खाण्डवे सत्यसन्धेन भ्रात्रा तव महात्मना ॥ 3-161-27(22117)
गन्धर्वोरगरक्षांसि वासवश्च पराजितः।
हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवं ॥ 3-161-28(22118)
तवापि सुमहत्तेजो महद्बाहुबलं च ते।
अविषह्यमनाधृष्यं शक्रतुल्यपराक्रम ॥ 3-161-29(22119)
त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः।
हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश ॥ 3-161-30(22120)
ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम्।
व्यपेतभयसंमोहाः पश्यन्तु सुहृदस्तव ॥ 3-161-31(22121)
एवं प्रणिहितं भीम चिरात्प्रभृतिमे मनः।
द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलमाश्रिता ॥ 3-161-32(22122)
`इच्छामि च नरव्याघ्र पुष्पं प्रत्यक्षमीदृशम्।
आनीयमानं क्षिप्रं वै त्वया भरतसत्तम' ॥ 3-161-33(22123)
ततः क्षिप्तमिवात्मानं द्रौपद्या स परंतपः।
नामृष्यत महाबाहुः प्रहारमिवसद्गजः ॥ 3-161-34(22124)
सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः।
मनस्वी बलवान्दृष्टो मानी भूरश्च पाण्डवः ॥ 3-161-35(22125)
लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः।
सिंहदंष्ट्रो वृषस्कन्धः सालपोत इवोद्गतः ॥ 3-161-36(22126)
महात्मा चारुसर्वाङ्ग कम्बुग्रीवो महाहनुः।
रुक्मपृष्ठं धनुः खङ्गं तूणांश्चापि परामृशन् ॥ 3-161-37(22127)
सकेसरीव चोत्सिक्तः प्रभिन्न इव वारणः।
व्यपेतभयसंमोहः शैलमभ्यपतद्बली ॥ 3-161-38(22128)
तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम्।
ददृशुः सर्वभूतानि पार्थं खङ्गधनुर्धरम् ॥ 3-161-39(22129)
द्रौपद्या वर्धयन्हर्षं गदामादाय पाण्डवः।
व्यपेतभयसंमोहः शैलराजं समाविशत् ॥ 3-161-40(22130)
न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः।
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ॥ 3-161-41(22131)
तदेकायनमासाद्य विषमं भीमदर्शनम्।
बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः ॥ 3-161-42(22132)
स किन्नरमहानागमुनिगन्धर्वराक्षसान्।
हर्षयन्पर्वतस्याग्रमारुरोह महाबलः ॥ 3-161-43(22133)
ततो वैश्रवणावासं ददर्श भरतर्षभः।
काञ्चनैः स्फाटिकैश्चैव वेश्मभिः समलंकृतम् ॥ 3-161-44(22134)
[प्राकारेण परिक्षिप्तं सौवर्णेन समन्ततः।
सर्वरत्नद्युतिमता सर्वोद्यानवता तथा ॥ 3-161-45(22135)
शैलादभ्युच्छ्रयवता चयाट्टालकशोभिना।
द्वारतोरणनिर्व्यूहध्वजसंवाहशोभिना ॥ 3-161-46(22136)
विलासिनीभिरत्यर्थं नृत्यन्तीभिः समन्ततः।
वायुना धूयमानाभिः पताकाभिरलंकृतम् ॥ 3-161-47(22137)
धनुष्कोटिमवष्टभ्य वक्रभावेन बाहुना।
पश्यमानः सखेदेन द्रविणाधिपतेः पुरम् ॥] 3-161-48(22138)
मोदयनसर्वभूतानि गन्धमादनसंभवः।
सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥ 3-161-49(22139)
चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः।
अचिन्त्या विविधास्तत्र द्रुमाः परमशोभिनः ॥ 3-161-50(22140)
रत्नजालपरिक्षिप्तं चित्रमाल्यविभूषितम्।
राक्षसाधिपतेः स्थानं ददृशे भरतर्षभः ॥ 3-161-51(22141)
गदाखङ्गधनुष्पाणिः समभित्यक्तजीवितः।
भीमसेनो महाबाहुस्तस्थौ गिरिवाचलः ॥ 3-161-52(22142)
ततः शङ्खमुपाध्माय द्विषतां रोमहर्षणम्।
ज्याघोषं तलशब्दं च कृत्वा भूतान्यमोहयत् ॥ 3-161-53(22143)
ततः प्रहृष्टरोमाणस्तं शब्दमभिदुद्रुवुः।
यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः ॥ 3-161-54(22144)
गदापरिघनिस्त्रिंशशूलशक्तिपरश्वथाः।
प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः ॥ 3-161-55(22145)
ततः प्रववृते युद्धं तेषां तस्य च भारत ॥ 3-161-56(22146)
तैः प्रयुक्तान्महामायैः शूलशक्तिपरश्वथान्।
भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः ॥ 3-161-57(22147)
अन्तरिक्षगतानां च भूमिष्ठानां च गर्जताम्।
शरैर्विव्याध गात्राणइ राक्षसानां महाबलः ॥ 3-161-58(22148)
`शोणितस्य ततः पेतुर्घनानामिव भारत।'
गात्रेभ्यः प्रच्युता धारा राक्षसानां समन्ततः'।
स लोहितमहावष्टिमभ्यवर्षन्महाबलः ॥ 3-161-59(22149)
गदापरिघपाणीनां रक्षसां कायसंभवा।
कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः ॥ 3-161-60(22150)
भीमबाहुबलोत्सृष्टैरायुधैर्यक्षरक्षसाम्।
विनिकृत्तानि दृश्यन्ते शरीराणि शिरांसि च ॥ 3-161-61(22151)
प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम्।
ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव ॥ 3-161-62(22152)
स रश्मिभिरिवादित्यः शरैररिनिपातिभिः।
सर्वानार्च्छन्महाबाहुर्बलवान्सत्यविक्रमः ॥ 3-161-63(22153)
अभितर्जयमानाश्च रुवन्तश् महारवान्।
सन्नाहं भीमसेनस्य ददृशुः सर्वराक्षसाः ॥ 3-161-64(22154)
ते हि विक्षतसर्वाङ्गा भीमसेनभयार्दिताः।
भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः ॥ 3-161-65(22155)
उत्सृज्य ते गदाशूलानसिशक्तिपरश्वथान्।
दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना ॥ 3-161-66(22156)
तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः।
सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः ॥ 3-161-67(22157)
दर्शयन्स प्रतीकारं पौरुषं च महाबलः।
स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत् ॥ 3-161-68(22158)
एकेन बहवः सङ्ख्ये मानुषेण पराजिताः।
प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् ॥ 3-161-69(22159)
एवमाभाष् तान्सर्वानभ्यवर्तत राक्षसः।
शक्तिशूलगदापाणिरभ्यधावत्स पाण्डवम् ॥ 3-161-70(22160)
तमापतन्तं वेगेन प्रभिन्नमिव वारणम्।
वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समार्दयत् ॥ 3-161-71(22161)
मणिमानपि संक्रुद्धः प्रगृह्य महतीं गदाम्।
प्राहिणोद्भीमसेनाय परिगृह्य महाबलः ॥ 3-161-72(22162)
विद्युद्रूपां महाघोरामाकाशे महतीं गदाम्।
शरैर्बहुभिरानर्छद्भीमसेनः शिलाशितैः ॥ 3-161-73(22163)
प्रत्यहन्यन्त ते सर्वेगदामासाद्य सायकाः।
न वेगं धारयामासुर्गदावेगस्य वेगिताः ॥ 3-161-74(22164)
गदायुद्धसमाचारं बुध्यमानः स वीर्यवान्।
व्यंसयामास तं तस्य प्रहारं भीमविक्रमः ॥ 3-161-75(22165)
ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम्।
तस्मिन्नेवान्तरे धीमान्प्रचिक्षेप स राक्षसः ॥ 3-161-76(22166)
सा भुजं भीमनिर्ह्रादा भित्त्वाभीमस् दक्षिणम्।
साग्निज्वाला महारौद्रा पपात सहसा भुवि ॥ 3-161-77(22167)
सोऽतिविद्धो महेष्वासः शक्त्याऽमितपराक्रमः।
गदां जग्राह कौन्तेयो गदायुद्धविशारदः ॥ 3-161-78(22168)
रुक्मपट्टपिनद्धां तां शत्रूणां भयवर्धिनीम्।
प्रगृह्याथ नदन्भीमः शैक्यां सर्वायसीं गदाम्।
तरसा चाभिदुद्राव मणिमन्तं महाबलम् ॥ 3-161-79(22169)
दीप्यमानं महाशूलं प्रगृह्य मणिमानपि।
प्राहिणोद्भीमसेनाय वेगेन महता नदन् ॥ 3-161-180(22170)
भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविभागवित्।
अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम् ॥ 3-161-81(22171)
सोऽन्तरिक्षमवप्लुत्य विधूय सहसा गदाम्।
प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि ॥ 3-161-82(22172)
सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरहसा।
हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह ॥ 3-161-83(22173)
तं राक्षसं बीमबलं भीमसेनबलाहतम्।
ददृशुः सर्वभूतानि सिंहेनेव गवांपतिम् ॥ 3-161-84(22174)
तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः।
भीममार्तस्वरं कृत्वा जग्मुः प्राचजीं दिशं प्रति ॥ 3-161-85(22175)
इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि एकषष्ट्यधिकशततमोऽध्यायः ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-161-34 सद्गव इति झ. पाठः ॥ 3-161-36 पृथू विशिष्टौ अंसौ यस्यस पृथुव्यंसः ॥ 3-161-41 ग्लानिः श्रमः. कातर्यं भयम्। वैक्लव्यमनुत्साहः। मत्सरः परोत्कर्षासहिष्णुत्वम् ॥ 3-161-42 एकायनं वामदक्षिणसंचारशून्यम् ॥ 3-161-45 परिक्षिप्तं परित आवृतम् ॥ 3-161-46 चयाट्टालकशोभिना। चयः प्रकारस्य मूलबन्धः। अट्टालकः उपरिगृहम्। तोरणं वहिर्द्वारम्। निर्व्यूहः नागदन्ताख्यं गृहान्निर्गतं दारु ॥ 3-161-48 वक्रभावेन वक्रेण बाहुना उपलक्षितः। खेदेन तद्दर्शनात्खसंपात्स्मरणं तेन. द्रविणाधिपतेः धनाधिपतेः ॥ 3-161-51 ददृशे ददर्श ॥ 3-161-64 न मोहं भीमसेनस्येति झ. पाठः ॥ 3-161-68 अदर्शयदाधीकारमिति झ. पाठः ॥ 3-161-69 सङ्ख्ये संग्रामे ॥ 3-161-74 प्रत्यहन्यन्त प्रतिहताः। वेगिताः वेगवन्तोपि। गदावेगस्य गदायां वेगोऽत्यभ्यासो यस्य तस्य ॥ 3-161-75 सः भीमः। व्यंसयामास व्यर्थीचकार ॥ 3-161-76 अयस्मयी अयोमयीम् ॥ 3-161-79 शैक्यां शीकयति शत्रुन्पराभवतीति शैक्या। शीकयतेर्ऋहलोर्ण्यदिति ण्यत्। ततः स्वार्थिकोण् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|